NCERT Solutions Class 9th Sanskrit Shemushi Chapter – 3 गोदोहनम्
Textbook | NCERT |
Class | 8th |
Subject | (संस्कृत) |
Chapter | 3rd |
Chapter Name | गोदोहनम् |
Category | Class 8th संस्कृत |
Medium | Sanskrit |
Source | Last Doubt |
NCERT Solutions Class 9th Sanskrit Shemushi Chapter – 3 गोदोहनम्
?Chapter – 3?
✍ गोदोहनम् ✍
? प्रश्न उत्तर ?
अभ्यासः
NCERT Solutions Class 9th Sanskrit (Chapter – 3) Question. 1 प्रश्न 1. एकपदेन उत्तरं लिखत – (क) मल्लिका पूजार्थं सखीभिः सह कुत्र गच्छति स्म? |
NCERT Solutions Class 9th Sanskrit (Chapter – 3) Question. 2 प्रश्न 2. पूर्णवाक्येन उत्तरं लिखत – |
NCERT Solutions Class 9th Sanskrit (Chapter – 3) Question. 3 प्रश्न 3. रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत – |
NCERT Solutions Class 9th Sanskrit (Chapter – 3) Question. 4 प्रश्न 4. मञ्जूषायाः सहायतया भावार्थे रिक्तस्थानानि पूरयत – गृहव्यवस्थायै, उत्पादयेत्, समर्थकः, धर्मयात्रायाः, मङ्गलकामनाम्, कल्याणकारिणः। |
NCERT Solutions Class 9th Sanskrit (Chapter – 3) Question. 5 प्रश्न 5. घटनाक्रमानुसारं लिखत – |
NCERT Solutions Class 9th Sanskrit (Chapter – 3) Question. 6 प्रश्न 6. अधोलिखितानि वाक्यानि कः के प्रति कथयति इति प्रदत्तस्थाने लिखत – प्रत्यागता अहम्। – आस्वादय प्रसादम्। – मल्लिका – चन्दनं प्रति |
NCERT Solutions Class 9th Sanskrit (Chapter – 3) Question. 7 प्रश्न 7. पाठस्य आधारेण प्रदत्तपदानां सन्धि/सन्धिच्छेदं वा कुरुत – |
NCERT Solutions Class 9th Sanskrit (Chapter – 3) Question. 8 प्रश्न 8. (अ) पाठाधारेण अधोलिखितपदानां प्रकृति-प्रत्ययं च संयोज्य/विभज्य वा लिखत – |
अतिरिक्तम् कार्यम्
प्रश्न 1. निम्नलिखितं संवादं पठित्वा तदाधारितानां प्रश्नानाम् उत्तराणि लिखत – 1. (प्रथमं दृश्यम्) (मल्लिका मोदकानि रचयन्ती मन्दस्वरेण शिवस्तुतिं करोति) (ततः प्रविशति मोदकगन्धम् अनुभवन् प्रसन्नमना चन्दनः।) चन्दनः – अहा! सुगन्धस्तु मनोहरः (विलोक्य ) अये मोदकानि रच्यन्ते? (प्रसन्नः भूत्वा) आस्वादयामि तावत्। (मोदकं गृहीतुमिच्छति) मल्लिका – (सक्रोधम् ) विरम। विरम। मा स्पृश! एतानि मोदकानि। चन्दनः – किमर्थं क्रुध्यसि! तव हस्तनिर्मितानि मोदकानि दृष्ट्वा अहं जिह्वालोलुपता नियन्त्रयितुम् अक्षमः अस्मि, किं न जानासि त्वमिदम्? मल्लिका – सम्यग् जानामि नाथ! परम् एतानि मोदकानि पूजानिमित्लानि सन्ति। चन्दनः – तर्हि, शीघ्रमेव पूजनं सम्पादय। प्रसादं च देहि।(i) एकपदेन उत्तरत (केवलं प्रश्नद्वयमेव) 1. ततः कीदृशः चन्दनः प्रविशति? 2. मल्लिका कानि अरचय? 3. मल्लिका मन्दस्वरेण किं करोति स्म? ?♂️उत्तर: 1. प्रसन्नमना 2. मोदकानि 3. शिवस्तुति(ii) पूर्णवाक्येन उत्तरत (केवलं प्रश्नमेकमेव) 1. चन्दनः कानि दृष्ट्वा स्वजिह्वालोलुपतां नियन्त्रयितुम् अक्षमः आसीत्? 2. एतानि मोदकानि कस्याः निमित्तानि सन्ति? ?♂️उत्तर: 1. चन्दन: मल्लिकायाः हस्तनिर्मितानि मोदकानि दृष्ट्वा स्वजिह्वालोलुपत्ता नियन्त्रयितुम् अक्षमः आसीत्। (iii) भाषिककार्यम् (केवलं प्रश्नत्रयमेव) ?♂️उत्तर: 1. हस्तनिर्मितानि |
2. मल्लिका – भो! अत्र पूजनं न भविष्यति। अहं स्वसखिभिः सह श्वः प्रातः काशीविश्वनाथमन्दिरं प्रति गमिष्या. मि, तत्र गङ्गास्नानं धर्मयात्राञ्च वयं करिष्यामः। 1. चन्दनः – सखिभिः सह! न मया सह! (विषावं नाटयति) 2. मल्लिका – आम्। चम्पा, गौरी, माया, मोहिनी, कपिलायाः सर्वाः गच्छन्ति। अतः, मया सह तवागमनस्य औचित्यं नास्ति। वयं सप्ताहान्ते प्रत्यागमिष्यामः। तावत्, गृह व्यवस्था, धेनोः दुग्धदोहनव्यवस्थाञ्च परिपालय।(i) एकपदेन उत्तरत (केवल प्रश्नद्वयमेव) 1. मल्लिका काभिः सह धर्मयात्रां गच्छति? 2. मल्लिकाया: अनुपस्थितौ गृहव्यवस्था क: परिपालयिष्यति? 3. सा स्वसखिभिः सह कुत्र गमिष्यति??♂️उत्तर: 1. स्वसखिभिः 2. चन्दनः 3. काशीविश्वनाथमन्दिरम। (ii) पूर्णवाक्येन उत्तरत (केवलं प्रश्नमेकमेव) ?♂️उत्तर: 1. मल्लिकथा सह काशीविश्वनाथमन्दिरं प्रति चम्पा, गौरी, माया, मोहिनी, कपिलायाः सर्वाः गच्छन्ति। (iii) भाषिककार्यम् (केवलं प्रश्नत्रयमेव) ?♂️उत्तर: 1. अहम् |
3. चन्दनः – अस्तु। गच्छ। सखिभिः सह धर्मयात्रया आनन्दिता च भव। अहं सर्वमपि परिपालयिष्यामि। शिवास्ते सन्तु पन्थानः। 1. चन्दनः – मल्लिका तु धर्मयात्रायै गता। अस्तु। दुग्धदोहनं कृत्वा ततः स्वप्रातराशस्य प्रबन्ध करिष्यामि। (स्त्रीवेषं धृत्वा, दुग्धपात्रहस्त: नन्दिन्याः समीपं गच्छति) 2. उमा – मातुलानि! मातुलानि! 3. चन्दनः – उमे! अहं तु मातुलः। तव मातुलनी तु गङ्गास्नानार्थ काशीं गता अस्ति। कथय! कि ते प्रियं करवाणि? 4. उमा – मातुल! पितामहः कथयति, मासानन्तरम् अस्मत् गृहे महोत्सवः भविष्यति। तत्र त्रिशत-सेटकमितं दुग्धम् अपेक्षते। एषा व्यवस्था भवद्भिः करणीया। 5. चन्दनः – (प्रसन्नमनसा) त्रिशत-सेटककपरिमितं दुग्धम्! शोभनम्। दुग्धव्यवस्था भविष्यति एव इति पितामह प्रति त्वया वक्तव्यम्। 6. उमा – धन्यवादः मातुल! याम्यधुना। (सा निर्गता)(i) एकपदेन उत्तरत (केवलं प्रश्नद्वयमेव) 1. कीदृशः चन्दनः नन्दिन्याः समीपं गच्छति? 2. तत्र कति मात्र दुग्धम् अपेक्षते? 3. कः सर्वमपि परिपालयिष्यति??♂️उत्तर: 1.3 दुग्धपात्रहस्तः 2. त्रिशत-सेटकमितम् 3. चन्दनः (ii) पूर्णवाक्येन उत्तरत (केवल प्रश्नमेकमेव) ?♂️उत्तर: 1. मासानन्तम् अस्यत् गृहे महोत्सवः भविष्यति। (iii) भाषिककार्यम् (केवलं प्रश्नत्रयमेव) ?♂️उत्तर: 1. वक्तव्यम् |
4. चन्दनः – (प्रसन्नो भूत्वा, अङ्गलिषु गणयन्) अहो! सेटक-त्रिशतकानि पयांसि! अनेन तु बहुधनं लपये। (नन्दिनीं दृष्ट्वा ) भो नन्दिनि! तव कृपया तु अहं धनिकः भविष्यामि। (प्रसन्नः सः धेनोः बहुसेवा करोति) 1. चन्दनः – (चिन्तयति) मासान्ते एव दुग्धस्य आवश्यकता भवति। यदि प्रतिदिन दोहन करोमि तर्हि दुग्धं सुरक्षित ङ्केत तिष्ठाि इवाना कि फरशाणा? अवतु नाम मासान्ते सम्पूर्णतया पधवोहम करोमि। (एवं क्रमेण सप्तदिनानि व्यतीतानि। सप्ताहान्ते मल्लिका प्रत्यागच्छति) 2. मल्लिका – (प्रविश्य) स्वामिन्! प्रत्यागता अहम्। आस्वादय प्रसादम्।(चन्दन: मोदकानि खादति वदति च) 3. चन्दनः – मल्लिके! तव यात्रा तु सम्यक सफला जाता? काशीविश्वनाथस्य कपया प्रियं निवेदयामि। 4. मल्लिका – (सा चर्यम्) एवम्। धर्मयात्रातिरिक्तं प्रियतरं किम्? (i) एकपदेन उत्तरत (केवलं प्रश्नद्वयमेव) ?♂️उत्तर: 1. दुग्धस्य (ii) पूर्णवाक्येन उत्तरत (केवलं प्रश्नमेकमेव) ?♂️उत्तर: 1. नन्दिन्याः कृपया तु चन्दनः धनिको भविष्यति। (iii) भाषिककार्यम् (केवलं प्रश्नत्रयमेव) ?♂️उत्तर: 1. धनिकः |
5. चन्दनः – ग्रामप्रमुखस्य गृहे महोत्सवः मासान्ते भविष्यति। तत्र त्रिशत-सेटकमित दुग्धम् अस्माभिः दातव्यम् अस्तिा 1. मल्लिका – किन्तु एतावन्मानं दुग्धं कुतः प्राफ्यामः। 2. चन्दनः – विचारय मल्लिके! प्रतिदिनं दोहनं कृत्वा दुग्धं स्थापयामः चेत् तत् सुरक्षितं न तिष्ठति। अत एव दुग्धदोहनं न क्रियते। उत्सवदिने एव समग्रं दुग्धं धोक्ष्यावः। 3. मल्लिका – स्वामिन्! त्वं तु चतुरतमः। अत्युत्तमः विचारः। अधुना दुग्धदोहनं विहाय केवलं नन्दिन्याः सेवाम् एव करिष्याव:। अनेन अधिकाधिकं दुग्धं मासान्ते प्राप्स्यावः।। (द्वावेव धेनोः सेवायां निरतौ भवतः। अस्मिन् क्रमे घासादिकं गुडादिकं च भोजयतः। कदाचित् विषाणयोः तैलं लेपयतः तिलकं धारयतः, रात्रौ नीराजनेनापि तोषयतः) 4. चन्दनः – मल्लिके! आगच्छ। कुम्भकारं प्रति चलावः। दुग्धार्थ पात्रप्रबन्धोऽपि करणीयः। (द्वावेव निर्गतौ)(i) एकपदेन उत्तरत (केवलं प्रश्नद्वयमेव) 1. ग्रामप्रमखस्य गृहे महोत्सवः कदा भविष्यति? 2. मल्लिकायाः दृष्टौ चन्दनस्य विचारः कीदृशः अस्ति? 3. द्वावेव कस्याः सेवायां निरतौ भवतः??♂️उत्तर: 1. मासान्ते 2. अत्युत्तमः 3. धेनोः। (ii) पूर्णवाक्येन उत्तरत (केवलं प्रश्नमेकमेव) ?♂️उत्तर: 1. अधुना तौ दुग्धदोहनं विहाय केवलं नन्दिन्याः सेवाम् एव करिष्यतः। (iii) भाषिककार्यम् (केवलं प्रश्नत्रयमेव) ?♂️उत्तर: 1. द्वौ |
6. चन्दनः – नमस्करोमि तात! पञ्चदश घटान् इच्छामि। किं दास्यसि? 1. देवेश – कथं न? विक्रयणाय एव एते। गृहाण घटान्। पञ्चशतोत्तर-रूप्यकाणि च देहि। 2. चन्दनः – साधु। परं मूल्य तु दुग्धं विक्रीय एव वातुं शक्यते। 3. देवेशः – क्षम्यतां पुत्र! मूल्यं विना तु एकमपि घटं न दास्यामि। 4. मल्लिका – (स्वाभूषणं दातुमिच्छति ) तात! यदि अधुनैव मूल्यम् आवश्यक तहि, गृहाण एतत् आभूषणम्। 5. देवेशः – पुत्रिके! नाहं पापकर्म करोमि। कथमपि नेच्छामि त्वाम् आभूषणविहीनां कर्तुम्। नयतु यथाभिलषितान् घटान्। दुग्धं विक्रीय एव घटमूल्यम् ददातु। 6. उभौ – धन्योऽसि तात! धन्योऽसि।(i) एकपवेन उत्तरत (केवलं प्रश्नद्वयमेव) 1. का स्वाभूषणं दातुम् इच्छति? 2. चन्दनः कति घटान् इच्छति? 3. ‘नाहं पापकर्म करोमि’ इति कः कथयति??♂️उत्तर: 1. मल्लिका 2. पञ्चदश 3. देवेशः (ii) पूर्णवाक्येन उत्तरत (केवलं प्रश्नमेकमेव) ?♂️उत्तर: 1. देवेश मल्लिका वदति-‘पुत्रिके! नाहं पापकर्म करोमि। कथमपि नेच्छामि त्वाम् आभूषणविहीनां कर्तुम्। नयतु यथाभिलषितान् घटान्। दुग्धं विक्रीय एव घटमूल्यम् ददातु। (iii) भाषिककार्यम् (केवलं प्रश्नत्रयमेव) ?♂️उत्तर: 1. यथाभिलषितान् |
7. (मासानन्तरं सन्ध्याकालः। एकत्र रिक्ता: नूतनघटाः सन्ति। दुग्धक्रेतारः अन्ये च ग्रामवासिनः अपरत्र आसीनाः) 1. चन्दनः – (धेनुं प्रणम्य, मङ्गलाचरणं विधाय, मल्लिकाम् आह्वयति) मल्लिके! सत्वरम् आगच्छ। 2. मल्लिका – आयामि नाथ! दोहनम् आरभस्व तावत्। 3. चन्दनः – (यदा धेनोः समीपं गत्वा दोग्धुम् इच्छति, तदा धेनुः पृष्ठपादेन प्रहरति। चन्दन व पात्रेण सह पतति ) नन्दिनि! दुग्धं देहि। किं जातं ते? (पुनः प्रयासं करोति) (नन्दिनी च 4. पुनः पुनः पावप्रहारेण ताडयित्वा चन्दनं रक्तरञ्जितं करोति) हा! हतोऽस्मि। (चीत्कार कुर्वन् पतति) (सर्वे आ अर्येण चन्दनम् अन्योन्यं च पश्यन्ति)(i) एकपदेन उत्तरत (केवलं प्रश्नद्वयमेव) 1. एकत्र रिक्ताः के सन्ति? 2. नन्दिनी केन ताडयित्वा चन्दनं रक्तरञ्जितं करोति? 3. मासानन्तरं कीदृशः कालः अस्ति??♂️उत्तर: 1. नूतनघटाः 2. पादप्रहारेण 3. सन्ध्याकाल: (ii) पूर्णवाक्येन उत्तरत (केवलं प्रश्नमेकमेव) ?♂️उत्तर: 1. यदा चन्दनः धेनोः समीपं गत्वा दोग्धुम् इच्छति, तदा धेनुः चन्दनं पृष्ठपादेन प्रहरति। (iii) भाषिककार्यम् (केवलं प्रश्नत्रयमेव) ?♂️उत्तर: 1. समीपम् |
8. मल्लिका – चीत्कार श्रुत्वा, झटिति प्रविश्य) नाथ! किं जातम्? कथं त्वं रक्तरञ्जितः? चन्दनः – धेनुः दोग्धुम् अनुमतिम् एव न ददाति। दोहनप्रक्रियाम् आरभमाणम् एव ताडयति माम्। (मल्लिका धेनु स्नेहेन वात्सल्येन च आकार्य दोग्धं प्रयतते। किन्तु, धेनुः दुग्धहीना एव इति अवगच्छति।) मल्लिका – (चन्दन प्रति) नाथ! अत्यनुचितं कृतम् आवाभ्याम् यत्, मासपर्यन्त धेनोः दोहनं कृतम्। सा पीडम् अनुभवति। अत एव ताडयति। चन्दनः – देवि! मयापि ज्ञात यत्, अस्माभिः सर्वथा अनुचितमेव कृतं यत्, पूर्णमासपर्यन्त दोहन न कृतम्। अत एव, दुग्धं शुष्कं जातम्। सत्यमेव उक्तम् कार्यमद्यतनीयं यत् तदद्यैव विधीयताम्। विपरीते गतिर्यस्य स कष्टं लभते ध्रुवम्।। मल्लिका – आम् भर्तः! सत्यमेव। मयापि पठितं यत् सुविचार्य विधातव्यं कार्य कल्याणकाविणा। यः करोत्यविचार्यैतत् स विषीदति मानवः॥ किन्तु प्रत्यक्षतया अद्य एव अनुभूतम् एतत्। सर्वे – दिनस्य कार्य तस्मिन्नेव दिने कर्तव्यम्। यः एवं न करोति सः कष्ट लभते ध्रुवम्।(i) एकपदेन उत्तरत (केवलं प्रश्नद्वयमेव) 1. धेनुः किमर्थम् अनुमतिम् एव न ददाति? 2. दिनस्य कार्य कदा (कस्मिन्नेव दिने) कर्तव्यम्? 3. अस्माभिः कीदृशं कार्य कृतम्??♂️उत्तर: 1. दोग्धुम् 2. तस्मिन्नेव 3. अनुचितम्। (ii) पूर्णवाक्येन उत्तरत (केवलं प्रश्नमेकमेव) ?♂️उत्तर: 1. यदा चन्दनः दोहनप्रक्रियाम आरभति तदा धेनः चन्दनम् एव ताडयति। (iii) भाषिककार्यम् (केवलं प्रश्नत्रयमेव) ?♂️उत्तर: 1. पीडाम |
प्रश्न 1. रेखाङ्कित आधृत्य प्रश्ननिर्माणम् कुरुत – 1. मल्लिका मोदकानि रचयन्ति मन्दस्वरेण शिवस्तुतिं करोति। 2. मोदकगन्धम् अनुभषन् चन्दनः प्रसन्नमनाः प्रविशति। 3. हस्तनिर्मितानि मोदकानि दृष्ट्वा चन्दनः जिह्वालोलुपता नियन्त्रयितुम् अक्षमः आसीत्। 4. एतानि मोदकानि पूजानिमित्तानि सन्ति। 5. मल्लिका स्वसखिभिः सह काशीविश्वनाथमन्दिरं गन्तुम् इच्छति। 6. तया सह. चम्पा, गौरी, माया, मोहिमी, कपिलायाः सर्वाः गच्छन्ति। 7. सखिभिः सह धर्मयात्रया आनन्दिता च भव। 8. मल्लिका तु धर्मयात्रायै गता। 9. दुग्धदोहनं कृत्वा ततः प्रातराशस्य प्रबन्धं करिष्यामि। 10. तव मातुलानी तु गङ्गास्नानार्थं काशी गता अस्ति। 11. मासानन्तरं गृहे महोत्सवः भविष्यति। 12. तत्र त्रिशत-सेटकमितं दुग्धम् अपेक्षते। 13. मासान्ते एव दुग्धस्य आवश्यकता भवति। 14.ग्रामप्रमुखस्य गृहे महोत्सव: मासान्त भविष्यति। 15. उत्सवदिने एव समग्रं दुग्धं धोक्ष्यावः। 16. अधुना दुग्धदोहनम् विहाय केवलं नन्दिन्याः सेवाम एव करिष्यावः। 17. द्वावेव धेनोः सेवायां निरतौ भवतः। 18. दुग्धार्थं पात्र प्रबन्धोऽपि करणीयः। 19. सर्व जीवनं भरं ज्ञात्वा अपि कुम्भकार: घटान् रचयति। 20. मूल्यं विना तु एकमपि घटं न दास्यामि। |
NCERT Solutions for Class 9 संस्कृत सभी अध्याय प्रश्न उत्तर