NCERT Solutions Class 9th Sanskrit Shemushi Chapter – 2 स्वर्णकाकः
Textbook | NCERT |
Class | 9th |
Subject | (संस्कृत) |
Chapter | 2nd |
Chapter Name | स्वर्णकाकः |
Category | Class 9th संस्कृत |
Medium | Sanskrit |
Source | Last Doubt |
NCERT Solutions Class 9th Sanskrit Shemushi Chapter – 2 स्वर्णकाकः
Chapter – 2
स्वर्णकाकः
प्रश्न उत्तर
अभ्यासः
प्रश्न 1. एकपदेन उत्तर लिखत – (क) माता काम् आदिशत्? (ख) स्वर्णकाक: कान् अखादत्? (ग) प्रासादः कीदृशः वर्तते? (घ) गृहमागत्य तया का समुद्घटिता? (ङ) लोभाविष्टा बालिका कीदृशीं मञ्जूषां नमति? उत्तर (क) पुत्रीम् (ख) तण्डुलान् (ग) स्वर्णमयः (घ) मञ्जूषा (ङ) बृहत्तमाम् |
प्रश्न 2. अधोलिखितानां प्रश्नानाम् उत्तराणि संस्कृतभाषया लिखत – (क) निर्धनायाः वृद्धायाः दुहिता कीदृशी आसीत्? (ख) बालिकया पूर्व कीदृशः काकः न दृष्टः आसीत्? (ग) निधनायाः दुहिता मञ्जूषायां कानि अपश्यत? (घ) बालिका किं दृष्ट्वा आश्चर्यचकिता जाता? (ङ) गर्विता बालिका कीदृशं सोपानम् अयाचत् कीदृशं च प्राप्नोत्? उत्तर (क) निर्धनायाः वृद्धायाः दुहिता विनम्रा मनोहरा च आसीत्। (ख) बालिकया पूर्व एतादृशः स्वर्णपक्षः रजतचञ्चुः स्वर्णकाकः न दृष्टः आसीत्। (ग) निर्धनायाः दुहिता मञ्जूषायां महाहाणि हीरकाणि अपश्यत्। (घ) बालिका वृक्षस्य उपरि स्वर्णमयं प्रासादं दृष्ट्वा आश्चर्यचकिता जाता। (ङ) गर्विता बालिका स्वर्णमय सोपानम् अयाचत् ताम्रमयं च प्राप्नोत्। |
प्रश्न 3. (1.) अधोलिखितानां शब्दानां विलोमपदं पाठात् चित्वा लिखतशब्दाः विलोमपदानि – शब्दाः – विलोमपदानि (क) पश्चात् – ……….. (ख) हसितुम् – ……… (ग) अधः – …………… (घ) श्वेतः – …………. (ङ) सूर्यास्त: – …………. (च) सुप्तः – ………….. उत्तर शब्दाः – विलोमपदानि (क) पश्चात् x पूर्वम् (ख) हसितुम् x रोदितुम् (ग) अधः x उपरि (घ) श्वेतः x कृष्णः (ङ) सूर्यास्त: x सूर्योदयः (च) सुप्तः x प्रबुद्धः (2.) सन्धिं कुरुत – |
प्रश्न 4. स्थूलपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत – (क) ग्रामे निर्थना स्वी अवसत्। (ख) स्वर्णकाकं निवारयन्ती बालिका प्रार्थयत्। (ग) सूर्योदयात् पूर्वमेव बालिका तत्रोपस्थिता। (घ) बालिका निर्धनमातुः दुहिता आसीत्। (ङ) लुब्धा वृद्धा स्वर्णकाकस्य रहस्यमभिज्ञातवती। उत्तर (क) ग्रामे का अवसत्? (ख) कं निवारयन्ती बालिका प्रार्थयत्? (ग) कस्मात् पूर्वमेव बालिका तत्रोपस्थिता? (घ) बालिका कस्याः दुहिता आसीत्? (ङ) लुब्धा वृद्धा कस्य रहस्यमभिज्ञातवती? |
प्रश्न 5. प्रकृति-प्रत्यय-संयोगं कुरुत (पाठात् चित्वा वा लिखत) – (क) वि + लोक् + ल्यप् – …………. (ख) नि – क्षिप् + ल्यप् – …………. (ग) आ + गम् + ल्यप् – …………. (घ) दृश् + क्त्वा – …………. (ङ) शी + क्त्वा – …………. (च) लघु + तमप् – …………. उत्तर (क) वि + लोक् + ल्यप् – विलोक्य (ख) नि – क्षिप् + ल्यप् – निक्षिप्य (ग) आ + गम् + ल्यप् – आगम्य (घ) दृश् + क्त्वा – दृष्ट्वा (ङ) शी + क्त्वा – शयित्वा (च) लघु + तमप् – लघुतम (लघुतमम्) |
प्रश्न 6. प्रकृति-प्रत्यय-विभागं कुरुत – (क) रोदितुम् – …………. (ख) दृष्ट्वा – …………. (ग) विलोक्य – …………. (घ) निक्षिप्य – …………. (ङ) आगत्य – …………. (च) शयित्वा – …………. (छ) लघुतमम् – …………. उत्तर (क) रोदितुम् – रुद् + तुमुन् (ख) दृष्ट्वा – दृश् + क्त्वा (ग) विलोक्य –वि + लोक् + ल्यप् (घ) निक्षिप्य – नि + क्षिप् + ल्यप् (ङ) आगत्य – आ + गम् + ल्यप् (च) शयित्वा – शी + क्त्वा (छ) लघुतमम् – लघु + तमप् |
प्रश्न 7. अधोलिखितानि कथनानि कः/का, कं/कां च कथयति – कथनानि – क:/का – कं/काम् (क) पूर्व प्रातराशः क्रियताम्। – …………. – …………. (ख) सूर्यातपे तण्डुलान् खगेभ्यो रक्ष। – …………. – …………. (ग) तण्डुलान् मा भक्षय। – …………. – …………. (घ) अहं तुभ्यं तण्डुलमूल्यं दास्यामि। – …………. – …………. (ङ) भो नीचकाक! अहमागता, महां तण्डुलमूल्यं प्रयच्छ। – …………. – …………. उत्तर कथनानि – कः/का – कं/काम् (क) पूर्व प्रातराशः क्रियताम्। – स्वर्णकाक: – बालिकाम् (ख) सूर्यातपे तण्डुलान् खगेभ्यो रक्ष। – वृद्धा माता – पुत्रीम् (ग) तण्डुलान् मा भक्षया – बालिका – स्वर्णकाकम् (घ) अहं तुभ्यं तण्डुलमूल्यं दास्यामि। – स्वर्णकाकः – बालिकाम् (ङ) भो नीचकाक! अहमागता, मां तण्डुलमूल्यं प्रयच्छ। – लुब्धायाः पुत्री – स्वर्णकाकम् |
प्रश्न 8. उदाहरणमनुसृत्य कोष्ठकगतेषु पदेषु पञ्चमीविभक्तेः प्रयोगं कृत्वा रिक्तस्थानानि पूरयत – यथा-मूषक: बिलाद् बहिः निर्गच्छति। (बिल) (क) जनः …………. बहिः आगच्छति। (ग्राम) (ख) नद्यः …………. निस्सन्ति। (पर्वत) (ग) …………. पत्राणि पतन्ति। (वृक्ष) (घ) बालकः …………. बिभेति। (सिंह) (ङ) ईश्वरः …………. त्रायते। (क्लेश) (च) प्रभुः भक्तं …………. निवारयति। (पाप) ?♂️उत्तर: (क) ग्रामात् (ख) पर्वतात्/पर्वतेभ्यः (ग) वृक्षात् (घ) सिंहात् (छ) क्लेशात् (च) पापात् |
अतिरिक्त कार्यम्
प्रश्न 1. निम्नलिखितम् अनुच्छेदं पठित्वा तदाधारिताना प्रश्नानाम् उत्तराणि लिखत – 1. पुरा कस्मिंश्चिद् ग्रामे एका निधना वृद्धा स्त्री न्यवसत्। तस्याः च एका दुहिता विनमा मनोहरा चासीत्। एकदा माता स्थाल्या तण्डुलान् निक्षिप्य पुत्रीम् आदिशत्। “सूर्यातपे तण्डुलान् खगेभ्यो रक्षा” किञ्चित् कालादनन्तरम् एको विचित्रः काकः समुड्डीय तस्याः समीपम् अगच्छत् । (i) एकपदेन उत्तरत (केवलं प्रश्नद्वयमेव) ?♂️उत्तर: (ii) पूर्णवाक्येन उत्तरत (केवलं प्रश्नमेकमेव) ?♂️उत्तर: – 1. किञ्चित्कालानन्तरम् एको विचित्रः काकः समुड्डीय तस्याः समीपम् अगच्छत्। (ii) . दुहिता विनम्रा मनोहरा चासीत्। (iii) भाषिककार्यम् (केवलं प्रश्नत्रयमेव) ?♂️उत्तर: – 1. स्त्री |
2. नैतादृशः स्वर्णपक्षो रजतचञ्चुः स्वर्णकाकस्तया पूर्व दृष्टः। तं तण्डुलान् खावन्तं हसन्तञ्च विलोक्य बालिका रोदितुमारब्धा। तं निवारयन्ती सा प्रार्थयत्-“तण्डुलान् मा भक्षया मदीया माता अतीव निर्धना वर्तते।” स्वर्णपक्षः काकः प्रोवाच, “मा शुचः। सूर्योदयात्प्राग् ग्रामाबहिः पिप्पलवृक्षमनु त्वया आगन्तव्यम्। अहं तुभ्यं तण्डुलमूल्यं दास्यामि।” ङ्केप्रहबिता बालिका निनामपि न लेभा (i) एकपदेन उत्तरत (केवलं प्रश्नद्वयमेव) ?♂️उत्तर: (ii) पूर्णवाक्येन उत्तरत (केवलं प्रश्नमेकमेव) ?♂️उत्तर: – स्वर्णकाकं निवारयन्ती सा प्रार्थयत्-“तण्डुलान् मा भक्षय। मदीया माता अतीव निर्धना वर्तते।” (iii) भाषिककार्यम् (केवलं प्रश्नत्रयमेव) ?♂️उत्तर: |
3. सूर्योदयात्पूर्वमेव सा तत्रोपस्थिता। वृक्षस्योपरि विलोक्य सा च आश्चर्यचकिता सजाता यत् तत्र स्वर्णमयः प्रासादो वर्तते। यदा काकः शयित्वा प्रबुद्धस्तदा तेन स्वर्णगवाक्षात्कथितं “हहो बाले! त्वमागता, तिष्ठ, अहं त्वत्कृते सोपानमवतारयामि, तत्कथय स्वर्णमयं रजतमयम् तासमय वा”? कन्या अवदत्-“अहं निर्धनमातुः दुहिता अस्मि। तानसोपानेनैव आगमिष्यामि।” परं स्वर्णसोपानेन सा स्वर्णभवनम् आरोहत् । (i) एकपदेन उत्तरत (केवलं प्रश्नद्वयमेव)
?♂️उत्तर: – 1. बालिका (सा) 2. निर्धनमातुः 3. शयित्वा (ii) पूर्णवाक्येन उत्तरत (केवलं प्रश्नमेकमेव)
?♂️उत्तर: – 1. स्वर्णगवाक्षात् काकेन कथितम्-हंहो बाले! त्वमागता, तिष्ठ, अहं त्वत्कृते सोपानमवतारयामि। 2. कन्या प्रावोचत् अहं निर्धनमातुर्दुहिताऽस्मिा ताम्रसोपानेनैव आगमिष्यामि। (iii) भाषिककार्यम् (केवलं प्रश्नत्रयमेव)
?♂️उत्तर: – 1. उपरि 2. अस्मि 3. ताम्रमयं 4. वर्तते |
4. चिरकाल भवने चित्रविचित्रवस्तूनि सज्जितानि दृष्ट्वा सा विस्मयं गता। श्रान्तां तां विलोक्य काकः अवदत् “पूर्व लघुप्रातराशः क्रियताम्-वद त्वं स्वर्णस्थाल्यां भोजनं करिष्यसि किं वा रजतस्थाल्याम् उत ताम्रस्थाल्याम्”? बालिका अवदत्-ताप्रस्थाल्याम् एव अहं-“निर्धना भोजनं करिष्यामि।” तदा सा आश्चर्यचकिता सञ्जाता यदा स्वर्णकाकेन स्वर्णस्थाल्यां भोजनं पर्यवेषितम्। न एतादृशम् स्वादु भोजनमद्यावधि बालिका खादितवती। काकोऽववत्-“बालिके! अहमिच्छामि यत् त्वम् सर्वदा अत्रैव तिष्ठ परं तव माता तु एकाकिनी वर्तते। अतः त्वं शीघ्रमेव स्वगृहं गच्छ ।” (i) एकपदेन उत्तरत (केवलं प्रश्नद्वयमेव)
?♂️उत्तर: – 1. श्रान्ताम् 2. स्वादु 3. चित्रविचित्रवस्तूनि (ii) पूर्णवाक्येन उत्तरत (केवलं प्रश्नमेकमेव)
?♂️उत्तर: – 1. चिरकाल भवने चित्रविचित्रवस्तूनि सज्जितानि दृष्ट्वा सा विस्मयं गता।
?♂️उत्तर: – 1. आश्चर्यचकिता 2. माता 3. तिष्ठ 4. विलोक्य |
5. इत्युक्त्वा काकः कक्षाभ्यन्तरात् तिनः मञ्जूषाः निस्सार्य तां प्रत्यवदत् “बालिके! यथेच्छ गृहाण मञ्जूषामेकाम्।” लघुतमा मञ्जूषां प्रगृह्य बालिकया कथितम् इयत् एव मदीयतण्डुलानां मूल्यम्। गृहमागत्य तया मञ्जूषा समुद्घाटिता, तस्यां महार्हाणि हीरकाणि विलोक्य सा प्रहर्षिता तहिनाद्धनिका च सजाता । (i) एकपदेन उत्तरत (केवलं प्रश्नद्वयमेव)
?♂️उत्तर: – 1. तिस्रः 2. लघुतमाम् 3. हीरकाणि (ii) पूर्णवाक्येन उत्तरत (केवलं प्रश्नमेकमेव)
?♂️उत्तर: – 1. मञ्जूषायां महार्हाणि हीरकाणि विलोक्य सा बालिका प्रहर्षिता अभवत्। बालिके! यथेच्छं गृहाण मञ्जूषामेकाम्। (iii) भाषिककार्यम् (केवलं प्रश्नत्रयमेव)
?♂️उत्तर: – 1. काकः 2. सजाता 3. आगत्य 4. गृहाण |
6. तस्मिन्नेव ग्रामे एका अपरा लुब्धा वृद्धा न्यवसत्। तस्या अपि एका पुत्री आसीत्। ईयया सा तस्य स्वर्णकाकस्य रहस्यम् ज्ञातवती। सूर्यातपे तण्डुलान् निक्षिप्य तयापि स्वसुता रक्षार्थं नियुक्ता। तथैव स्वर्णपक्षः काकः तण्डुलान् भक्षयन् तामपि तत्रैवाकारयत्। प्रातस्तत्र गत्वा सा काकं निर्भर्त्सयन्ती प्रावोचत्-“भो नीचकाक! अहमागता, मां तण्डुलमूल्यं प्रयच्छ।” काकोऽब्रवीत्-“अहं त्वत्कृते सोपानम् अवतारयामि। तत्कथय स्वर्णमयं रजतमय तासमयं वा।” गर्वितया बालिकया प्रोक्तम्-“स्वर्णमयेन सोपानेन अहम् आगच्छामि।” परं स्वर्णकाकस्तत्कृते तासमयं सोपानमेव प्रायच्छत्। स्वर्णकाकस्तां भोजनमपि तानभाजने एव अकारयत् । (i) एकपदेन उत्तरत (केवलं प्रश्नद्वयमेव)
?♂️उत्तर: – 1. लुब्धा 2. ताम्रभाजने 3. पुत्री (ii) पूर्णवाक्येन उत्तरत (केवलं प्रश्नमेकमेव)
?♂️उत्तर: – 1. सा वृद्धा ईयया तस्य स्वर्णकाकस्य रहस्यम् अभिज्ञातवती। 2. तस्मिन्नेव ग्रामे एकाऽपरा लुब्धा वृद्धा न्यवसत्। (iii) भाषिककार्यम् (केवलं प्रश्नत्रयमेव)
?♂️उत्तर: – 1. स्वर्णकाकः 2. न्यवसत् 3. निर्भर्त्सयन्ती 4. न्यवसत् |
प्रश्न 7. प्रतिनिवृत्तिकाले स्वर्णकाकेन कक्षाभ्यन्तरात् तिम्रः मञ्जूषाः तत्पुरः समुत्क्षिप्ताः। लोभाविष्टा सा बृहत्तमा मञ्जूषां गृहीतवती। गृहमागत्य सा तर्षिता यावद् मञ्जूषामुद्घाटयति तावत् तस्या भीषणः कृष्णसर्पो विलोकितः। लुब्धया बालिकया लोभस्य फलं प्राप्तम्। तदनन्तरं सा लोभ पर्यत्यजत् । (i) एकपदेन उत्तरत (केवलं प्रश्नद्वयमेव)
?♂️उत्तर: – 1. स्वर्णकाकेन 2. बृहत्तमाम 3. कृष्णसर्पः (ii) पूर्णवाक्येन उत्तरत (केवलं प्रश्नमेकमेव)
?♂️उत्तर:
(iii) भाषिककार्यम् (केवलं प्रश्नत्रयमेव)
?♂️उत्तर: – 1. स्वर्णकाके 2. बालिकार्य 3. अनन्तरम् 4. तत्पुरः |
प्रश्न 1. निम्नवाक्येषु रेखाङ्कित पदानां स्थानेषु प्रश्नवाचकं पदं लिखत – 1. पुरा कस्मिंश्चिद् ग्रामे एका वृद्धा न्यवसत्। 2. तस्याः दुहिता विनम्रा मनोहरा च आसीत्। 3. सा पुत्रीम् आदिदेश। 4. सूर्यातपे तण्डुलान् खगेभ्यो रक्ष। 5. तदा एक: विचित्रः काकः समुड्डीय ताम् उपाजगाम। 6. सा प्रार्थयत् – तण्डुलान् मा भक्षय। 7. प्रहर्षिता बालिका निद्राम् अपि न लेभे। 8. अहं तुभ्यं तण्डुलमूल्यं प्रदास्यामि। 9. वृक्षस्य उपरि विलोक्य सा आश्चर्यचकिता सञ्जाता। 10. अहं त्वत्कृते सोपानम् अवतारयामि। 11. अहं निर्धनमातुः दुहिता अस्मि। 12. श्रान्तां तां विलोक्य काकः प्राह। 13. अहं निर्धना ताम्रस्थाल्याम् एव भोजनं करिष्यामि।। 14. तव माता एकाकिनी वर्तते। 15. त्वं शीघ्रमेव स्वगृहं गच्छ। 16. काकः कक्षाभ्यन्तरात् तिस्रः मञ्जूषाः निस्सार्य अवदत्। 17. लघुतमा मञ्जूषां प्रगृह्य बालिकया कथितम्। 18. तत्रैव एका अपरा लुब्धा वृद्धा न्यवसत्। 19. ईय॑या सा स्वर्णकाकस्य रहस्यम् अभिज्ञातवती। 20. तथा अपि स्वसुता तण्डुलरक्षार्थं नियुक्ता। 21. महयं तण्डुलमूल्यं प्रयच्छ। 22. स्वर्णमयेन सोपानेन अहम् आगच्छामि।। 23. लोभाविष्टा सा बृहत्तमा मञ्जूषां गृहीतवती। 24. तस्यां तया भीषणः सर्पः विलोकितः। 25. लुब्धया बालिकया लोभस्य फलं प्राप्तम्। |
NCERT Solutions for Class 9 संस्कृत सभी अध्याय प्रश्न उत्तर