NCERT Solutions Class 10th Sanskrit (Shemushi) Chapter – 5 सुभाषितानि (Subhashitani) प्रश्न – उत्तर

NCERT Solutions for Class 10th Sanskrit (Shemushi) Chapter – 5 सुभाषितानि (Subhashitani)

TextbookNCERT
Class 10th
Subject Sanskrit
Chapter5th
Chapter Name सुभाषितानि
CategoryClass 10th Sanskrit
Medium Hindi
SourceLast Doubt
NCERT Solutions for Class 10th Sanskrit (Shemushi) Chapter – 5 सुभाषितानि (Subhashitani) प्रस्तुतः पाठः विविधग्रन्थात् सङ्कलितानां दशसुभाषितानां सङ्ग्रहो वर्तते। संस्कृतसाहित्ये सार्वभौमिकं सत्यं प्रकाशयितुम् अर्थगाम्भीर्ययुता पद्यमयी प्रेरणात्मिका रचना सुभाषितम कथ्यते। अयं पाठांशः परिश्रमस्य महत्त्वम्, क्रोधस्य दुष्प्रभावः, सामाजिकमहत्त्वम्, सर्वेषां वस्तूनाम् उपादेयता, बुद्धेः वैशिष्ट्यम् इत्यादीन् विषयान् प्रकाशयति। पठिष्यति अवगमिष्यति तथा च स्मरति इत्यादि।

NCERT Solutions for Class 10th Sanskrit (Shemushi) Chapter – 5 सुभाषितानि (Subhashitani)

Chapter – 5

सुभाषितानि

प्रश्न उत्तर

अभ्यास

प्रश्न 1. एकपदेन उत्तरं लिखत-

(क) मनुष्याणां महान् रिपुः कः?
उत्तरम् –
आलस्यं

(ख) गुणी किं वेत्ति?
उत्तरम् –
गुणं

(ग) केषां सम्पत्तौ च विपत्तौ च महताम् एकरूपता?
उत्तरम् –
महताम्

(घ) पशुना अपि कीदृशः गृह्यते?
उत्तरम् –
उदीरितोऽर्थः

(ङ) उदयसमये अस्तसमये च क: रक्तः भवति?
उत्तरम् –
सविता
प्रश्न 2. अधोलिखितानां प्रश्नानाम् उत्तराणि संस्कृतभाषया लिखत-

(क) केन समः बन्धुः नास्ति?
उत्तरम् –
उद्यमेन समः बन्धुः नास्ति।

(ख) वसन्तस्य गुणं क: जानाति?
उत्तरम् –
पिक: वसन्तस्य गुणं जानाति।

(ग) बुद्धयः कीदृश्यः भवन्ति?
उत्तरम् –
परेङ्गितज्ञानफलाः बुद्धयः भवन्ति।

(घ) नराणां प्रथमः शत्रुः कः?
उत्तरम् –
नराणां प्रथमः शत्रुः क्रोधः।

(ङ) सुधियः सख्यं केन सह भवति?
उत्तरम् –
सुधियः सख्यं सुधीभिः सह भवति।

(च) अस्माभिः कीदृशः वृक्षः सेवितव्यः?
उत्तरम् –
अस्माभिः फलच्छायासमन्वितः वृक्षः सेवितव्यः।
प्रश्न 3. अधोलिखिते अन्वयद्वये रिक्तस्थानपूर्ति कुरुत-

(क) यः ___________ उद्दिश्य प्रकुप्यति तस्य ___________ स ध्रुवं प्रसीदति। यस्य मनः अकारणद्वेषि अस्ति, ___________ तं कथं परितोषयिष्यति?
उत्तरम् – य: निमित्तम् उद्दिश्य प्रकुप्यति तस्य अपगमे स ध्रुवं प्रसीदति। यस्य मनः अकारणद्वेषि अस्ति, जनः तं कथं परितोषयिष्यति?

(ख) ___________ संसारे खलु ___________ निरर्थकम् नास्ति। अश्वः चेत् ___________ वीरः खर: ___________ वहने (वीर:) (भवति)।
उत्तरम् – विचित्रे संसारे खलु किञ्चित् निरर्थकम् नास्ति। अश्वः चेत् धावने वीरः खरः भारस्य वहने (वीरः) भवति।
प्रश्न 4. अधोलिखितानां वाक्यानां कृते समानार्थकान् श्लोकांशान् पाठात् चित्वा लिखत-

(क) विद्वान् स एव भवति यः अनुक्तम् अपि तथ्यं जानाति।
उत्तरम् –
अनुक्तमप्यूहति पण्डितो जनः।

(ख) मनुष्यः समस्वभावैः जनैः सह मित्रता करोति।
उत्तरम् –
समान-शील-व्यसनेषु सख्यम्।

(ग) परिश्रमं कुर्वाण: नरः कदापि दु:खं न प्राप्नोति।
उत्तरम् –
नास्त्युद्यमसमो बन्धुः कृत्वा यं नावसीदति।

(घ) महान्तः जनाः सर्वदैव समप्रकृतयः भवन्ति।
उत्तरम् –
सम्पत्तौ च विपत्तौ च महतामेकरूपता।
प्रश्न 5. यथानिर्देशं परिवर्तनं विधाय वाक्यानि रचयत-

(क) गुणी गुणं जानाति। (बहुवचने)
उत्तरम् –
गुणिनः गुणान् गुणानि जानन्ति।

(ख) पशुः उदीरितम् अर्थं गृह्णाति। (कर्मवाच्ये)
उत्तरम् –
पशुना उदीरितः अर्थः गृहयते।

(ग) मृगाः मृगैः सह अनुब्रजन्ति। (एकवचने)
उत्तरम् –
मृगः मृगेण सह अनुव्रजति।

(घ) कः छायां निवारयति। (कर्मवाच्ये)
उत्तरम् –
केन छाया निर्वायते।

(ङ) तेन एव वह्निनां शरीरं दह्यते। (कर्तृवाच्ये)
उत्तरम् –
सः एव अग्नि शरीर दहति।
प्रश्न 6. (अ) सन्धि / सन्धिविच्छेदं कुरुत-

(क) न + अस्ति + उद्यमसम: ___________
उत्तरम् –
नास्त्युद्यमसमः

(ख) + ___________ तस्यापगमे
उत्तरम् –
तस्य + अपगमे

(ग) अनुक्तम् + अपि + ऊहति ___________
उत्तरम् –
अनुक्तमप्यूहति

(घ) + ___________ गावश्च
उत्तरम् –
गावः + च

(ङ) + ___________ नास्ति
उत्तरम् –
न + अस्ति

(च) रक्तः + च + अस्तमये ___________
उत्तरम् –
रक्तश्चास्तमये

(छ) + ___________ योजकस्तत्र
उत्तरम् –
योजक: + तत्र
प्रश्न 7. (आ) समस्तपदं/विग्रहं लिखत-

(क) उद्यमसमः ___________
(ख) शरीरे स्थितः ___________
(ग) निर्बल: ___________
(घ) देहस्य विनाशाय ___________
(ङ) महावृक्षः ___________
(च) समानं शीले व्वसनं येषां तेषु ___________
(छ) अयोग्यः ___________


उत्तरम् –

(क) उद्यमेन समः
(ख) शरीरस्थितः
(ग) निर्गतम् बलम् यस्मात् सः
(घ) देहविनाशाय
(ङ) महान् वृक्षः
(च) समानशील व्यसनेषु
(छ) न योग्य:
प्रश्न 8. (अ) अधोलिखितानां पदानां विलोमपदानि पाठात चित्वा लिखत-

(क) प्रसीदति ___________
(ख) मूर्खः ___________
(ग) बली ___________
(घ) सुलभः ___________
(ङ) संपत्ती ___________
(च) अस्तमये ___________
(छ) सार्थकम् ___________


उत्तरम् –

(क) अवसीदति
(ख) पण्डितः
(ग) निर्बलः
(घ) दुर्लभः
(ङ) विपत्ती
(छ) निरर्थकम्
(आ) संस्कृतेन वाक्यप्रयोगं कुरुत-

(क) कौआ – ………………
(ख) कारण – ………………
(ग) सूर्य – ……………………
(घ) कोयल – ……………………
(ङ) आग – …………………..


उत्तरम् –

(क) कौआ – वायसः कृष्णवर्णः भवति।
(ख) कारण – त्वं किं निमित्तं दृष्ट्वा अत्र तिष्ठसि?
(ग) सूर्य – सूर्यः पूर्व दिशायाम् उदयति।
(घ) कोयल – पिकः मधुरं कूजति।
(ङ) आग – तत्र सुदीप्तः वह्निः प्रज्वलति।
परियोजनाकार्यम-

(क) उद्यमस्य महत्वं वर्णयतः पञ्चश्लोकान् लिखत।
अथवाकापि कथा या भवद्भिः पठिता स्यात् यस्याम् उद्यमस्य महत्वं वर्णितम् ता स्वभाषया लिखत।

(ख) निमित्तमुद्दिश्य यः प्रकुप्यति ध्रुवं स तस्यापगमे प्रसीदति। यदि भवता कदापि ईदृशः अनुभवः कृतः तर्हि स्वभाषया लिखत।
विद्यार्थी स्वयं करें।

योग्यताविस्तारः
संस्कृत कृतियों के जिन पद्यों या पद्यांशों में सार्वभौम सत्य को बड़े मार्मिक ढंग से प्रस्तुत किया गया है। उन पद्यों को सुभाषित कहते हैं यह पाठ ऐसे दस सुभाषितों का संग्रह है जो संस्कृत के विभिन्न ग्रंथों से संकलित हैं। इनमें परिश्रम का महत्त्व, क्रोध का दुष्प्रभाव, सभी वस्तुओं की उपादेयता और बुद्धि की विशेषता आदि विषयों पर प्रकाश डाला गया है।

तत्पुरुष समास

शरीरस्थः –
शरीरे स्थितः
गृहस्थः – गृहे स्थितः
मनस्स्थः – मनसि स्थितः
तटस्थः – तटे स्थितः
कूपस्थः – कूपे स्थितः
वृक्षस्थः – वृक्षे स्थितः
विमानस्थः – विमाने स्थितः

अव्ययीभाव समास

निर्गुणम् – गुणानाम् अभावः
निर्मक्षिकम् – मक्षिकाणाम् अभावः
निर्जलम् – जलस्य अभाव:
निराहारम् – आहारस्य अभाव:

पर्यायवाचिपदानि

शत्रुः –
रिपुः, अरिः, वैरिः
मित्रम् – सखा, बन्धुः, सुहृद्
वह्निः – अग्निः, दाहकः, पावकः
सुधियः – विद्वांसः, विज्ञाः, अभिज्ञाः
अश्वः – तुरगः, हयः, घोटक:
गजः – करी, हस्ती, दन्ती, नागः
वक्षः – द्रुमः, तरुः, महीरुहः, विटपः, पादपः
सविता – सूर्यः मित्र: दिवाकरः, भास्करः

NCERT Solutions Class 10th Sanskrit All Chapter Question & Answer

You Can Join Our Social Account

YoutubeClick here
FacebookClick here
InstagramClick here
TwitterClick here
LinkedinClick here
TelegramClick here
WebsiteClick here